Shani Mangal Stotra | शनिमङ्गल स्तोत्र | Shani Stotra | साढ़े साती, ढैय्या निवारण हेतु सुनें #shani

Mere Krishna 2025-09-13

Views 7

Shani Mangal Stotra | शनिमङ्गल स्तोत्र | Shani Stotra | साढ़े साती, ढैय्या निवारण हेतु सुनें #shani @Mere Krishna

शनिमङ्गलस्तोत्रम्

मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः ।
स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥१॥
स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः ।
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥२॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥
ॐ अनया पूजया शनैश्चरः प्रीयताम् ।
ॐ मन्दाय नमः ॐ घटनाथाय नमः ॐ शनैश्चराय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
॥ इति श्रीशनिमङ्गलस्तोत्रं सम्पूर्णम् ॥

Share This Video


Download

  
Report form
RELATED VIDEOS